अमरकोशः


श्लोकः

पूर्वोऽन्यलिङ्गः प्रागाह पुंबहुत्वेऽपि पूर्वजान् । कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ ॥ १३४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पूर्व पूर्वः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पूर्वयति अच् कृत् अकारान्तः
2 कुम्भ कुम्भः पुंलिङ्गः कुं भूमिं कुत्सितं वा उम्भति अण् कृत् अकारान्तः
3 डिम्भ डिम्भः पुंलिङ्गः डिम्भयति अच् कृत् अकारान्तः