अमरकोशः


श्लोकः

अन्तराभवसत्त्वेऽश्वे गन्धर्वो दिव्यगायने । कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ ॥ १३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गन्धर्व गन्धर्वः पुंलिङ्गः गन्धमर्वति अण् कृत् अकारान्तः
2 कम्बु कम्बुः पुंलिङ्गः कम्बति कु उणादिः उकारान्तः
3 द्विजिह्व द्विजिह्वः पुंलिङ्गः द्वे जिह्वे यस्य बहुव्रीहिः समासः अकारान्तः