अमरकोशः


श्लोकः

तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम् । प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयो: ॥ १३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तल्प तल्पः पुंलिङ्गः, नपुंसकलिङ्गः तल्यतेऽस्मिन् उणादिः अकारान्तः
2 विटप विटपः पुंलिङ्गः, नपुंसकलिङ्गः वेटति। विट्यते वा कपन् उणादिः अकारान्तः
3 प्राप्तरूप प्राप्तरूपः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्राप्तो रूपम् तत्पुरुषः समासः अकारान्तः
4 स्वरूप स्वरूपः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्वमेव रूपं यस्य बहुव्रीहिः समासः अकारान्तः
5 अभिरूप अभिरूपः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभिलक्ष्यं रूपमस्य बहुव्रीहिः समासः अकारान्तः