अमरकोशः


श्लोकः

कलापो भूषणे बर्हे तूणीरे संहतेऽपि च । परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ ॥ १२९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कलाप कलापः पुंलिङ्गः कलामाप्नोति अण् कृत् अकारान्तः
2 परीवाप परीवापः पुंलिङ्गः परिवपनम्। अनेन। अत्र वा घञ् कृत् अकारान्तः