अमरकोशः


श्लोकः

अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि । रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने ॥ १२६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अधिष्ठान अधिष्ठानम् नपुंसकलिङ्गः अधिष्ठीयते । अनेन वा ल्युट् कृत् अकारान्तः
2 रत्न रत्नम् नपुंसकलिङ्गः रमयति , रमन्तेऽस्मिन् वा उणादिः अकारान्तः
3 वन वनम् नपुंसकलिङ्गः वन्यते घञ् कृत् अकारान्तः