अमरकोशः


श्लोकः

अकार्यगुह्ये कौपीनं मैथुनं संगतौ रते । प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः ॥ १२२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कौपीन कौपीनम् नपुंसकलिङ्गः कूपपतनमर्हति निपातनात् अकारान्तः
2 मैथुन मैथुनम् नपुंसकलिङ्गः मिथुनमेव अण् तद्धितः अकारान्तः
3 प्रधान प्रधानम् नपुंसकलिङ्गः प्रधत्ते, धीयतेऽनेन।अस्मिन् वा ल्युट् कृत् अकारान्तः
4 प्रज्ञान प्रज्ञानम् नपुंसकलिङ्गः प्रज्ञायते ल्युट् कृत् अकारान्तः