अमरकोशः


श्लोकः

शालावृका: कपिक्रोष्टुश्वान: स्वर्णेऽपि गैरिकम् । पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते ॥ १२ ।

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शालावृक शालावृकः पुंलिङ्गः शालां वृणोति कक् उणादिः अकारान्तः
2 गैरिक गैरिकम् नपुंसकलिङ्गः गिरौ भवम् ठक् तद्धितः अकारान्तः
3 व्यलीक व्यलीकम् नपुंसकलिङ्गः विगतमलीकम् तत्पुरुषः समासः अकारान्तः
4 अलीक अलीकम् नपुंसकलिङ्गः अलति कीकच् उणादिः अकारान्तः