अमरकोशः


श्लोकः

स्यादुद्यानं नि:सरणे वनभेदे प्रयोजने । अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम् ॥ ११७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उद्यान उद्यानम् नपुंसकलिङ्गः उद्यात्यनेन।अस्मिन्वा ल्युट् कृत् अकारान्तः
2 स्थान स्थानम् नपुंसकलिङ्गः स्थीयतेऽत्र ल्युट् कृत् अकारान्तः
3 देवन देवनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः