अमरकोशः


श्लोकः

त्वग्देहयोरपि तनुः सूनाधोजिह्विकापि च । क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके ॥ ११३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तनु तनुः स्त्रीलिङ्गः तनोति, तन्यते वा उणादिः उकारान्तः
2 सूना सूना स्त्रीलिङ्गः सवनम्। सूयते वा क्त कृत् आकारान्तः
3 वितान वितानः पुंलिङ्गः, नपुंसकलिङ्गः (त्रिषु तुच्छके) वितननम्। वितन्यते वा घञ् कृत् अकारान्तः