अमरकोशः


श्लोकः

क्लेशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः । आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्मवर्ष्म च ॥ १०९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वृजिन वृजिनः पुंलिङ्गः वृज्यते इनन् उणादिः अकारान्तः
2 विश्वकर्मन् विश्वकर्मन् पुंलिङ्गः विश्वं कर्मास्मात्, अस्य वा बहुव्रीहिः समासः नकारान्तः
3 आत्मन् आत्मन् पुंलिङ्गः अतति मनिन् उणादिः नकारान्तः