अमरकोशः


श्लोकः

कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः । वर्षार्चिव्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः ॥ १०८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अभिजन अभिजनः पुंलिङ्गः अभि जायतेऽस्मिन् घञ् कृत् अकारान्तः
2 हायन हायनः पुंलिङ्गः जहाति, जिहीतेवा ण्युट् कृत् अकारान्तः
3 विरोचन विरोचनः पुंलिङ्गः विरोचते युच् कृत् अकारान्तः