अमरकोशः


श्लोकः

प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ । द्वौ सारथिहयारोहौ वाजिनोऽश्वेषु पक्षिणः ॥ १०७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रतियत्न प्रतियत्नः पुंलिङ्गः प्रतियतनम्।प्रतियत्यते वा नङ् कृत् अकारान्तः
2 सादिन् सादिन् पुंलिङ्गः अवश्यं सीदति। सादयति वा णिनि कृत् नकारान्तः
3 वाजिन् वाजिन् पुंलिङ्गः वाजाः पक्षाः सन्त्यस्य इनि तद्धितः नकारान्तः