अमरकोशः


श्लोकः

ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ । तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ ॥ १०६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ग्रावन् ग्रावन् पुंलिङ्गः ग्रसते कृत् नकारान्तः
2 पत्रिन् पत्रिन् पुंलिङ्गः पत्त्राणि सन्त्यस्य इनि तद्धितः नकारान्तः
3 शिखरिन् शिखरिन् पुंलिङ्गः शिखरमस्ति ययोः इनि तद्धितः नकारान्तः
4 शिखिन् शिखिन् पुंलिङ्गः शिखाः सन्त्यस्य इनि तद्धितः नकारान्तः