अमरकोशः


श्लोकः

मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम् । शङ्कावपि द्वयोः कील: पालिः स्त्र्यस्त्र्यङ्कपङ्क्तिषु ॥ १९७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मल मलः पुंलिङ्गः, नपुंसकलिङ्गः मलयति अच् कृत् अकारान्तः
2 शूल शूलः पुंलिङ्गः, नपुंसकलिङ्गः शलति कृत् अकारान्तः
3 कील कीलः पुंलिङ्गः, स्त्रीलिङ्गः कीलति । कील्यते । अत्र । अनेन वा कृत् अकारान्तः
4 पालि पालिः स्त्रीलिङ्गः पालयति । पाल्यते वा अत्र । अनया वा उणादिः इकारान्तः