अमरकोशः


श्लोकः

कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः । स्यात्कुरङ्गेऽपि कमल: प्रावारेऽपि च कम्बलः ॥ १९४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 काल कालः पुंलिङ्गः कालयति अच् कृत् अकारान्तः
2 कलि कलिः पुंलिङ्गः कलयति । कल्यते वा उणादिः इकारान्तः
3 कमल कमलः पुंलिङ्गः कामयते । काम्यते । वा कल उणादिः अकारान्तः
4 कम्बल कम्बलः पुंलिङ्गः काम्यते कल उणादिः अकारान्तः