अमरकोशः


श्लोकः

एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः । स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ ॥ १९१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पर परः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पिपर्ति । पूर्यते । अनेन वा अच् कृत् अकारान्तः
2 मधुर मधुरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मधु माधुर्यं राति । अस्त्यत्र वा कृत् अकारान्तः
3 क्रूर क्रूरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कृन्तति रक् उणादिः अकारान्तः