अमरकोशः


श्लोकः

अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले । उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः ॥ १९० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 एकाग्र एकाग्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः एकमेकत्र वाग्रमस्य बहुव्रीहिः समासः अकारान्तः
2 व्यग्र व्यग्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विविधं विविधे वाग्रमस्य। विरुद्धमगति वा रन् उणादिः अकारान्तः
3 उत्तर उत्तरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उत्तरति अच् कृत् अकारान्तः
4 अनुत्तर अनुत्तरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उत्तरस्याभावः । उत्तरस्य विरुद्धो वा तत्पुरुषः समासः अकारान्तः