अमरकोशः


श्लोकः

गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः । जठरः कठिनेऽपि स्यादधस्तादपि चाधरः ॥ १८९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गौर गौरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गोरति, गवते वा मनोऽत्र रन् उणादिः अकारान्तः
2 अरुष्कर अरुष्करः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अरुः करोति कृत् अकारान्तः
3 जठर जठरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जायते । अस्मिन् वा अर उणादिः अकारान्तः
4 अधर अधरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न धरति अच् कृत् अकारान्तः