अमरकोशः


श्लोकः

मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम् । शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् ॥ १८८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पिठर पिठरम् नपुंसकलिङ्गः पेठति । पिठ्यते वा अर उणादिः अकारान्तः
2 नागर नागरम् नपुंसकलिङ्गः नगरे भवम् अण् तद्धितः अकारान्तः
3 शार्वर शार्वरम् नपुंसकलिङ्गः शर्वर्यां भवम् अण् तद्धितः अकारान्तः