अमरकोशः


श्लोकः

तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे । औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने ॥ १८५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तन्त्र तन्त्रम् नपुंसकलिङ्गः तननम् । तन्यते । अनेन वा ष्ट्रन् उणादिः अकारान्तः
2 औशीर औशीरः पुंलिङ्गः, नपुंसकलिङ्गः उश्यते ईरन् उणादिः अकारान्तः