अमरकोशः


श्लोकः

मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे । दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ ॥ १८४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मन्दिर मन्दिरम् नपुंसकलिङ्गः मन्दतेऽत्र किरच् उणादिः अकारान्तः
2 राष्ट्र राष्ट्रः पुंलिङ्गः, नपुंसकलिङ्गः राजति ष्ट्रन् उणादिः अकारान्तः
3 दर दरः पुंलिङ्गः, नपुंसकलिङ्गः दरणम् । दीर्यते वा अप् कृत् अकारान्तः
4 वज्र वज्रः पुंलिङ्गः, नपुंसकलिङ्गः वजति रन् उणादिः अकारान्तः