अमरकोशः


श्लोकः

गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे । पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम् ॥ १८३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गह्वर गह्वरम् नपुंसकलिङ्गः गाह्यते ष्वरच् उणादिः अकारान्तः
2 उपह्वर उपह्वरम् नपुंसकलिङ्गः उपह्वरन्त्यत्र कृत् अकारान्तः
3 अग्र अग्रम् नपुंसकलिङ्गः अग्यते अगति वा रक् उणादिः अकारान्तः
4 पुर पुरम् नपुंसकलिङ्गः पिपर्ति कृत् अकारान्तः