अमरकोशः


श्लोकः

चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च । स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रे तु गोपुरम् ॥ १८२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चक्र चक्रम् नपुंसकलिङ्गः क्रीयतेऽनेन कृत् अकारान्तः
2 अक्षर अक्षरम् नपुंसकलिङ्गः न क्षरति अच् कृत् अकारान्तः
3 क्षीर क्षीरम् नपुंसकलिङ्गः घस्यते ईरन् उणादिः अकारान्तः
4 भूरि भूरिः पुंलिङ्गः भवति । भूयते वा क्रिन् उणादिः इकारान्तः
5 चन्द्र चन्द्रः पुंलिङ्गः चन्दति रक् उणादिः अकारान्तः
6 गोपुर गोपुरम् नपुंसकलिङ्गः गवां पुरम् तत्पुरुषः समासः अकारान्तः