अमरकोशः


श्लोकः

सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च । अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि ॥ १८१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सत्त्र सत्त्रम् नपुंसकलिङ्गः सीदन्त्यत्र । अनेन वा ष्ट्रन् उणादिः अकारान्तः
2 अजिर अजिरम् नपुंसकलिङ्गः अजन्त्यत्र । अनेन वा किरच् उणादिः अकारान्तः
3 अम्बर अम्बरम् नपुंसकलिङ्गः अम्बते । अम्ब्यते वा अर उणादिः अकारान्तः