अमरकोशः


श्लोकः

स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः । मुखाग्रे क्रोडहलयो: पोत्रं गोत्रं तु नाम्नि च ॥ १८० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नेत्र नेत्रम् नपुंसकलिङ्गः नयति नीयते । अनेन वा ष्ट्रन् कृत् अकारान्तः
2 क्षेत्र क्षेत्रम् नपुंसकलिङ्गः क्षयति । क्षीयते । अनेन वा ष्ट्रन् उणादिः अकारान्तः
3 पोत्र पोत्रम् नपुंसकलिङ्गः पूयतेऽनेन ष्ट्रन् कृत् अकारान्तः
4 गोत्र गोत्रम् नपुंसकलिङ्गः गूयतेऽनेन ष्ट्रन् उणादिः अकारान्तः