अमरकोशः


श्लोकः

योग्यभाजनयोः पात्रं पत्त्रं वाहनपक्षयोः । निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः ॥ १७९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पात्र पात्रम् नपुंसकलिङ्गः पाति । पायते वा । पीयतेऽनेन वा ष्ट्रन् उणादिः अकारान्तः
2 पत्र पत्रम् नपुंसकलिङ्गः पतन्त्यनेन ष्ट्रन् उणादिः अकारान्तः
3 शस्त्र शस्त्रम् नपुंसकलिङ्गः शासनम् । निष्यते अनेन, इति वा ष्ट्रन् उणादिः अकारान्तः
4 शास्त्र शास्त्रम् नपुंसकलिङ्गः शस्यतेऽनेन ष्ट्रन् कृत् अकारान्तः