अमरकोशः


श्लोकः

अल्पे च परिमाणे स्यान्मात्रं कार्त्स्न्येऽवधारणे । आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः ॥ १७८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चित्र चित्रम् नपुंसकलिङ्गः चिनोति । चीयते वा क्र उणादिः अकारान्तः
2 कलत्र कलत्रम् नपुंसकलिङ्गः गडति । गड्यते वा अत्रन् उणादिः अकारान्तः