अमरकोशः


श्लोकः

इरा भूवाक्सुराप्सु स्यात्तन्द्री निद्राप्रमीलयोः । धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि ॥ १७६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 इरा इरा स्त्रीलिङ्गः एति । ईयते वा रन् उणादिः आकारान्तः
2 तन्द्री तन्द्री स्त्रीलिङ्गः तत् राति कृत् ईकारान्तः
3 धात्री धात्री स्त्रीलिङ्गः धीयते ष्ट्रन् कृत् ईकारान्तः