अमरकोशः


श्लोकः

महारण्ये दुर्गपथे कान्तारः पुंनपुंसकम् । मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु ॥ १७२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कान्तार कान्तारः पुंलिङ्गः, नपुंसकलिङ्गः कान्ता अरा अस्य । यद्वा कान्तं मनोज्ञमृच्छति, इयर्ति वा बहुव्रीहिः समासः अकारान्तः
2 मत्सर मत्सरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः माद्यति परकृच्छ्रे सर उणादिः अकारान्तः