अमरकोशः


श्लोकः

स्याद्दाम्भिक: कौक्कुटिको यश्चादूरेरितेक्षणः । लालाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कौक्कुटिक कौक्कुटिकः पुंलिङ्गः कुक्कुटीं पश्यति ठक् तद्धितः अकारान्तः
2 लालाटिक लालाटिकः पुंलिङ्गः ललाटं पश्यति ठक् तद्धितः अकारान्तः