अमरकोशः


श्लोकः

वेदभेदे गुह्यवादे मन्त्रः मित्रो रवावपि । मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः ॥ १६७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मन्त्र मन्त्रः पुंलिङ्गः मन्त्र्यते । मन्त्रणं वा घञ् कृत् अकारान्तः
2 मित्र मित्रः पुंलिङ्गः, नपुंसकलिङ्गः मेद्यति क्र उणादिः अकारान्तः
3 स्वरु स्वरुः पुंलिङ्गः स्वरति । स्वर्यते वा उणादिः उकारान्तः
4 अवस्कर अवस्करः पुंलिङ्गः अबोऽधः कीर्यते अप् कृत् अकारान्तः