अमरकोशः


श्लोकः

मुक्ता शुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु । कर्वुरेऽथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः ॥ १६६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तार तारः पुंलिङ्गः तारयति अच् कृत् अकारान्तः
2 शार शारः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शृणाति घञ् कृत् अकारान्तः
3 संगर संगरः पुंलिङ्गः संगरणम् । संगीर्यते वा । अनेन वा अप् कृत् अकारान्तः