अमरकोशः


श्लोकः

गुरू गीर्पतिपित्राद्यौ द्वापरौ युगसंक्षयौ । प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती ॥ १६२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गुरु गुरुः पुंलिङ्गः गृणाति उणादिः उकारान्तः
2 द्वापर द्वापरः पुंलिङ्गः द्वाभ्यां परः। द्वौ परावत्र वा निपातनात् अकारान्तः
3 प्रकार प्रकारः पुंलिङ्गः प्रकरणम् घञ् कृत् अकारान्तः
4 आकार आकारः पुंलिङ्गः आकरणम् घञ् कृत् अकारान्तः