अमरकोशः


श्लोकः

न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते । निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ ॥ १६१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मध्य मध्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मां ध्यायति कृत् अकारान्तः
2 सौम्य सौम्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सोमो देवतास्य ट्यण् तद्धितः अकारान्तः
3 वार वारः पुंलिङ्गः वारयति, व्रियते वा अच् कृत् अकारान्तः
4 संस्तर संस्तरः पुंलिङ्गः संस्तीर्यते अप् कृत् अकारान्तः