अमरकोशः


श्लोकः

आत्मवाननपेतोऽर्थादर्थ्यो पुण्यं तु चार्वपि । रूप्यं प्रशस्ते रूपेऽपि वदान्यो वल्गुवागपि ॥ १६० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अर्थ्य अर्थ्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आत्मवाञ् ज्ञानी यत् तद्धितः अकारान्तः
2 पुण्य पुण्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पुनाति यत् उणादिः अकारान्तः
3 रूप्य रूप्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आहतं प्रशस्तं वा रूपमस्यास्ति यप् तद्धितः अकारान्तः
4 वदान्य वदान्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वदति आन्य उणादिः अकारान्तः