अमरकोशः


श्लोकः

धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्म शुभाशुभम् । कशेरुहेम्नोर्गाङ्गेयं विशल्या दन्तिकापि च ॥ १५५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 धिष्ण्य धिष्ण्यम् नपुंसकलिङ्गः धिष्यते असि उणादिः अकारान्तः
2 भाग्य भाग्यम् नपुंसकलिङ्गः भज्यतेऽनेन ण्यत् कृत् अकारान्तः
3 गाङ्गेय गाङ्गेयम् नपुंसकलिङ्गः गङ्गाया अपत्यम् ढक् तद्धितः अकारान्तः
4 विशल्या विशल्या स्त्रीलिङ्गः विगता शल्यात्। विगतं शल्यं यस्या वा तत्पुरुषः समासः आकारान्तः