अमरकोशः


श्लोकः

रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः । वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये ॥ १५४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गुह्य गुह्यम् नपुंसकलिङ्गः गूहनम् , गुह्यते वा क्यप् कृत् अकारान्तः
2 सत्य सत्यम् नपुंसकलिङ्गः सति साधुः यत् तद्धितः अकारान्तः
3 वीर्य वीर्यम् नपुंसकलिङ्गः वीर्यतेऽनेन यत् कृत् अकारान्तः
4 द्रव्य द्रव्यम् नपुंसकलिङ्गः द्रोरिदम् निपातनात् अकारान्तः