अमरकोशः


श्लोकः

निर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः । प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ क्रुधि ॥ १५३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कषाय कषायः पुंलिङ्गः, नपुंसकलिङ्गः कषति कण्ठम् अय उणादिः अकारान्तः
2 प्रतिश्रय प्रतिश्रयः पुंलिङ्गः प्रतिश्रयणम्।अत्रवा अच् कृत् अकारान्तः
3 प्राय प्रायः पुंलिङ्गः प्रायणम् घञ् कृत् अकारान्तः
4 मन्यु मन्युः पुंलिङ्गः मन्यते कु उणादिः उकारान्तः