अमरकोशः


श्लोकः

अत्ययोऽतिक्रमे कृच्छे दोषे दण्डेऽप्यथापदि । युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च ॥ १५० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अत्यय अत्ययः पुंलिङ्गः अत्ययनम् । अनेन वा अच् कृत् अकारान्तः
2 संपराय संपरायः पुंलिङ्गः संपरायणम् अच् कृत् अकारान्तः
3 पूज्य पूज्यः पुंलिङ्गः पूजयितुमर्हः यत् कृत् अकारान्तः