अमरकोशः


श्लोकः

श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ । पर्जन्यौ रसदब्देन्द्रौ स्यादर्य: स्वामिवैश्ययोः ॥ १४६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 श्वशुर्य श्वशुर्यः पुंलिङ्गः श्वशुरस्यापत्यम् यत् तद्धितः अकारान्तः
2 भ्रातृव्य भ्रातृव्यः पुंलिङ्गः भ्रातुरपत्यम् व्यत् तद्धितः अकारान्तः
3 पर्जन्य पर्जन्यः पुंलिङ्गः पिपर्ति अन्य उणादिः अकारान्तः
4 अर्य अर्यः पुंलिङ्गः अर्यते निपातनात् अकारान्तः