अमरकोशः


श्लोकः

जीर्णं च परिभुक्तं च यातयाममिदं द्वयम् । तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ ॥ १४५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 यातयाम यातयामः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः यातो गतो याम उपभोगकालो यस्य बहुव्रीहिः समासः अकारान्तः
2 तार्क्ष्य तार्क्ष्यः पुंलिङ्गः तार्क्ष्यस्य कश्यपस्यापत्यम् अण् तद्धितः अकारान्तः
3 क्षय क्षयः पुंलिङ्गः क्षयणम्, क्षीयतेऽत्र वा अच् कृत् अकारान्तः