अमरकोशः


श्लोकः

गुल्मा रुक्स्तम्बसेनाश्च जामि: स्वसृकुलस्त्रियोः । क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु ॥ १४२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गुल्म गुल्मः पुंलिङ्गः गुड्यते मक् उणादिः अकारान्तः
2 जामि जामिः स्त्रीलिङ्गः जायति।जायतेवा मि उणादिः इकारान्तः
3 क्षमा क्षमा स्त्रीलिङ्गः क्षमणम् अङ् कृत् आकारान्तः
4 क्षम क्षमम् नपुंसकलिङ्गः क्षमते।क्षम्यतेवा अच् कृत् अकारान्तः