अमरकोशः


श्लोकः

शब्दादिपूर्वी वृन्देऽपि ग्रामः कान्तौ च विक्रमः । स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मस्तु कुटिलेऽलसे ॥ १४१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ग्राम ग्रामः पुंलिङ्गः ग्रसते।ग्रस्यते वा उणादिः अकारान्तः
2 विक्रम विक्रमः पुंलिङ्गः विक्रमणम्। अनेन वा घञ् कृत् अकारान्तः
3 स्तोम स्तोमः पुंलिङ्गः स्तूयते। अनेन वा मन् उणादिः अकारान्तः
4 जिह्म जिह्मः पुंलिङ्गः जहाति। हीयते वा मन् उणादिः अकारान्तः