अमरकोशः


श्लोकः

वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने । आप्रच्छन्नमथाम्नायः सम्प्रदाय: क्षये क्षिया ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वर्धन वर्धनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
2 छेदन छेदनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 आनन्दन आनन्दनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
4 सभाजन सभाजनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
5 आप्रच्छन्न आप्रच्छन्नम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
6 आम्नाय आम्नायः पुंलिङ्गः आम्नानम् घञ् कृत् अकारान्तः
7 संप्रदाय संप्रदायः पुंलिङ्गः संप्रदानम् घञ् कृत् अकारान्तः
8 क्षय क्षयः पुंलिङ्गः क्षयणम् अच् कृत् अकारान्तः
9 क्षिया क्षिया स्त्रीलिङ्गः अङ् कृत् आकारान्तः