अमरकोशः


श्लोकः

पर्याप्तिः स्यात्परित्राणं हस्तवारणमित्यपि । सेवनं सीवनं स्यूतिः विदरः स्फुटनं भिदा ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पर्याप्ति पर्याप्तिः स्त्रीलिङ्गः पर्यापनं क्तिन् कृत् इकारान्तः
2 परित्राण परित्राणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 हस्तवारण हस्तवारणम् नपुंसकलिङ्गः हस्तेन हस्तस्य वा वारणम् तत्पुरुषः समासः अकारान्तः
4 सेवन सेवनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
5 सीवन सीवनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
6 स्यूति स्यूतिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः
7 विदर विदरः पुंलिङ्गः विदरणम् अप् कृत् अकारान्तः
8 स्फुटन स्फुटनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
9 भिदा भिदा स्त्रीलिङ्गः अङ् कृत् आकारान्तः