अमरकोशः


श्लोकः

संवीक्षणं विचयनं मार्गणं मृगणा मृगः । परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम् ॥ ३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संवीक्षण संवीक्षणम् नपुंसकलिङ्गः सम्यक् विविधमीक्षणम् ल्युट् कृत् अकारान्तः
2 विचयन विचयनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 मार्गण मार्गणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
4 मृगणा मृगणा स्त्रीलिङ्गः युच् कृत् आकारान्तः
5 मृग मृगः पुंलिङ्गः घञ् कृत् अकारान्तः
6 परिरम्भ परिरम्भः पुंलिङ्गः परिरम्भणम् घञ् कृत् अकारान्तः
7 परिष्वङ्ग परिष्वङ्गः पुंलिङ्गः परिष्वञ्जनम् घञ् कृत् अकारान्तः
8 संश्लेष संश्लेषः पुंलिङ्गः संश्लेषणम् घञ् कृत् अकारान्तः
9 उपगूहन उपगूहनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः