अमरकोशः


श्लोकः

उदजस्तु पशुप्रेरणमकरणिरित्यादयः शापे । गोत्रान्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम् ॥ ३९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उदज उदजः पुंलिङ्गः उदजनम् अप् कृत् अकारान्तः
2 पशुप्रेरण पशुप्रेरणम् नपुंसकलिङ्गः पशूनां प्रेरणम् तत्पुरुषः कृत् अकारान्तः
3 अकराणि अकराणिः स्त्रीलिङ्गः अकरणम् इनि कृत् इकारान्तः
4 औपगवक औपगवकम् नपुंसकलिङ्गः वुञ् कृत् अकारान्तः