अमरकोशः


श्लोकः

निष्ठ्यूतिर्निष्ठेवनं निष्ठीवनमित्यभिन्नानि । जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः ॥ ३८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निष्ठ्यूति निष्ठ्यूतिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः
2 निष्ठेवन निष्ठेवनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 निष्ठीवन निष्ठीवनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
4 जवन जवनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
5 जूति जूतिः स्त्रीलिङ्गः क्तिन् निपातनात् इकारान्तः
6 साति सातिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः
7 अवसान अवसानम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
8 ज्वर ज्वरः पुंलिङ्गः ज्वरणम् घञ् कृत् अकारान्तः
9 जूर्ति जूर्तिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः