अमरकोशः


श्लोकः

आविधो विध्यते येन तत्र विष्वक्समे निघः । उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ ॥ ३६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आविध आविधः पुंलिङ्गः आविध्यते येन कृत् अकारान्तः
2 निघ निघः पुंलिङ्गः नियतं हन्यते निपातनात् अकारान्तः
3 उत्कार उत्कारः पुंलिङ्गः उत्करणम् घञ् कृत् अकारान्तः
4 निकार निकारः पुंलिङ्गः निकरणम् घञ् कृत् अकारान्तः