अमरकोशः


श्लोकः

साकल्यासङ्गवचने पारायणतुरायणे । यदृच्छा स्वैरिता हेतुशून्या त्वास्था विलक्षणम् ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पारायण पारायणम् नपुंसकलिङ्गः पारस्य अयनम् तत्पुरुषः समासः अकारान्तः
2 तुरायण तुरायणम् नपुंसकलिङ्गः तुरस्यायनम् तत्पुरुषः समासः अकारान्तः
3 यदृच्छा यदृच्छा स्त्रीलिङ्गः या ऋच्छा तत्पुरुषः समासः आकारान्तः
4 स्वैरिता स्वैरिता स्त्रीलिङ्गः स्वेनैरितुं शीलमस्य णिनि कृत् आकारान्तः
5 विलक्षण विलक्षणम् नपुंसकलिङ्गः विगतं लक्षणमालोचनं यत्र बहुव्रीहिः समासः अकारान्तः